श्री राम सहस्रनाम स्तोत्रम् अस्य श्रीरामसहस्रनामस्तोत्र महामन्त्रस्य, भगवान् ईश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीरामः परमात्मा देवता, श्रीमान्महाविष्णुरिति बीजं, गुणभृन्निर्गुणो महानिति शक्तिः, संसारतारको राम इति मन्त्रः, सच्चिदानन्दविग्रह इति कीलकं, अक्षयः पुरुषः साक्षीति कवचं, अजेयः सर्वभूतानां इत्यस्त्रं, राजीवलोचनः श्रीमानिति ध्यानं श्रीरामप्रीत्यर्थे दिव्यसहस्रनामजपे विनियोगः । ध्यानंश्रीराघवं दशरथात्मजमप्रमेयंसीतापतिं रघुकुलान्वयरत्नदीपम् ।आजानुबाहुमरविन्ददलायताक्षंरामं निशाचरविनाशकरं नमामि ॥श्री राम सहस्रनाम स्तोत्रम् नीलां भुजश्यामल कोमलाङ्गंसीता समारोपित वामभागम् … Read more